आब्रह्मकीटान्तनिबद्धमिदं जगत् नूनं ब्रह्मणोऽवर्णनीया रचना विद्यते। अखिल- ब्रह्माण्डस्य नायकः भगवान् सूर्यः स्वसहस्ररश्मिभिः सर्वान् ग्रहान् जीवाञ्चानुदिनं प्रभावयति। ग्रहगणना-कालगणना-ग्रहप्रभावस्य च परिगणना ज्योतिषशास्त्रस्य प्रमुखविषयोऽस्तीति । भूपृष्ठस्थानां चराचराणामुपरि ग्रहाणां विलक्षणप्रभावः सर्व- दैकरूपं न भवति अपितु ग्रहर्क्षरश्मेः न्यूनाधिकप्रभावात् जगति शुभाशुभावस्थाभेदेन भिन्नं-भिन्नं भवति ।
प्राच्यविद्यासंरक्षणे तत्पराः अस्माकमाचार्याः कया रीत्याआश्चर्योत्पादकं विलक्षणप्रभावयुक्तमिदं शास्त्रं निर्मितवन्त इति अद्यापि रहस्यमयं विद्यते। अष्टादशप्रवर्त्तकै: ऋषिभिः प्रवर्तितमिदं ज्योतिषशास्त्रं लोके अद्यापि चाक्षु- षाङ्गेङ्गत्वेन अत्यधिकं महत्त्वं विभर्ति। यत्र अन्यानि सर्वाणि शास्त्राणि अप्रत्यक्षाणि सन्ति तत्र केवलं ज्योतिषमेव प्रत्यक्षशास्त्रं विद्यते । इदं शास्त्रं अद्यापि मानवहिताय जगद्धिताय च प्रयतमानः दृश्यते । रविचन्द्रयोः ग्रहणयोरानयनं एकादशीप्रभृतिव्रत- पर्वनिर्धारणं मानवानां शुभाशुभप्रतिपादकमिदं शास्त्रं नूनं महत्त्वपूर्णमस्तीति । स्कन्ध- त्रयात्मकं ज्योतिषशास्त्रं बहुविस्तृतं सम्पूर्णाङ्गयुक्तं च वर्त्तते ।
अत्र सिद्धान्तस्कन्धस्य ज्ञानं काठिन्ययुक्तं गुरुगम्यं च वर्तते, यतो हि तत्रोक्तकालविधानं, नवविधमानं, भूगोलसहितखगोलवलयानां ज्ञानं तु व्यक्ताव्यक्तभगोलवासनमयं विद्यते । तज्ज्ञानं गणितगोलकुशलदैवज्ञैरेव सम्भवभाव्यते । सिद्धान्तस्कन्धस्य परम्परायां आद्यसमुप- लब्धग्रन्थ: सूर्यसिद्धान्त एव वर्तते, यत्र सारल्येन सिद्धान्तस्य ज्ञानं वैशिष्ट्यं च प्रतिपादितं वर्त्तते ।
सम्प्रत्युपलब्धग्रन्थसूर्यसिद्धान्तस्य संस्कृतमाध्यमेन यादृशी टीका पण्डितप्रवराचार्यकपिलेश्वरशास्त्रिवर्येण कृता सा नूनं अपूर्वेति । ग्रन्थस्यास्य हिन्दी- माध्यमेन सरला वैज्ञानिक च टीका प्रो. रामचन्द्रपाण्डेय महावीरप्रसाद श्रीवास्तवाभ्यां च कृता वर्त्तते । एवमेवाग्रे सिद्धान्तस्कन्धस्यापरान्यतमो ग्रन्थः ‘सिद्धान्तशिरोमणि’ भास्कराचार्यस्य अत्युत्तमा रचना विद्यते ।
यत्र परिभाषासहित-खगोल-भूगोलयोः वैशिष्ट्यं प्रतिपादितं वर्त्तते । सिद्धान्तस्कन्धस्येयं परम्परा सिद्धान्ततत्त्वविवेक- सिद्धान्तशेखरं यावत् परिदृश्यते । सिद्धान्ततत्त्वविवेके कमलाकराचार्येण गोलज्ञाने यादृशं शाखामृगमिवाचरणं कृतं तत्तु महनीयं सर्वोत्कृष्टं च प्रयत्नं मन्यन्ते दैवज्ञैः । प्राच्यसिद्धान्तसहितनूतनविषयाणां यत्र-तत्र समावेशः युक्त्याधारेण च नूतनविषयोद्- घाटनं आधुनिकवैज्ञानिकानां कृतेऽपि मार्गदर्शक इव भाति ।
तत्त्वविवेकस्य प्रचलिता टीका गंगाधरमिश्रवर्येण निर्मिता वर्तते । वस्तुतः सेयं टीका केवलं टिप्पणीरूपा यत्र- तत्र संक्षेपेणैव वर्तते, येन ग्रन्थावगमने न हि सारल्यं जायते। यदि करणग्रन्थेषु विचार: क्रियते चेत् अद्यापि सर्वाधिकः प्रचार प्रसारश्च ग्रहलाघवस्यैव दृश्यते । ग्रहलाघवेन न केवलं पञ्चाङ्गनिर्माणमेव भवति अपितु सिद्धान्तोक्तानां उदाहरणसाधनमपि क्रियते.
Reviews
There are no reviews yet.