Vasturaj Vallabha
नास्त्यविदितं ज्योतिर्विद्यापरिद्योतितान्तःकरणानां धीमतां यदिह भूतले गार्हस्थ्यादिचतुर्विधाश्रमाणां गार्हस्थ्यजीवनमेव प्रधानं मूलभूतं सर्वसम्मतं तदाधारिका एवान्ये विभेदा इत्यत्र नो विप्रतिपत्तिः काचिदपि, तदर्थ स्थावरजङ्गमादिसर्वजन्तूनां स्वस्वनिवासस्थानरूपगृहस्य निर्माणमावश्यकम् । अमुमेवाशयमुल्लक्ष्यदेवर्षिवरैः पुराणैरुक्तम् –
“स्त्रीपुत्रादिकभोगसौख्यजननं धर्मार्थकामप्रदं जन्तूनां निलयं सुखास्पदमिदं शीताम्बुधर्मापहम् । वापीदेवगृहादिपुण्यमखिलं गेहात्समुत्पद्यते गेहं पूर्वमुशन्ति तेन विबुधाः श्रीविश्वकर्मादयः ।॥ एतन्निर्माणसम्बन्धिसकलविचारजातमेव ज्यौतिषस्याङ्गभूतं वास्तुशास्त्रनाम्ना प्रसिद्धम्, वस्तुतो गृहारंभकालिकमूहू- त्र्त्तस्य गुणदोषानुसारमेव तत्कर्तुरामरणं सुखदुःखादिकमनिवार्यमिति वास्तुशास्त्रे सर्वत्र समुदृङ्कितं सर्वैरनुभूतञ्च सर्वतः । एतत्सम्बन्धिनोऽनेके तत्तत्कालीनाः परम्परागता निबन्धाः प्रसिद्धाः ।
परन्तु यथात्र सामान्यव्यक्तिमारभ्याचक्रवर्ति- गृहस्य क्रमबद्धः सर्वाशिकविचारः प्रदर्शितो न तथा प्राचीनेष्विति सर्वनिबन्धा- नामालोचनयैवानुभूयते । एतदर्थमेव मेवाड़राज्ञां श्रीकुम्भकर्ण महोदयानां मनोवि- नोदाय तद्राजपण्डितेन श्रीमण्डनसूत्रधारमहाविदुषा यथार्थनामधेयो वास्तु- राजवल्लभोऽयं विरचितः, तत्समयादारभ्येदानीं यावदस्यैव विशेषादरः प्रतीयते । सर्वसाधारणजनानां सौविध्याय सरयूपारिकुलालङ्कारज्यौतिषाचार्यतीर्थपण्डित श्रो- रामयत्नशर्मणा पाठान्तरादिभिः संशोध्य स्वकीयहिन्दीटीकया च सहितः सम्पादितः ।
Reviews
There are no reviews yet.