Vastu Sarani
अंस्ति खलु त्रिवर्गतत्पराणां सर्वकृत्यानि स्वतन्त्रं चिकिर्पूणां गृहमेधिनां स्वगृहसञ्चयोऽनुष्ठेयः । यतः “परगेहेकृताः सर्वाः श्रौतस्मार्तादिकाः क्रियाः। निष्फलाः स्युर्यतस्तासां भूमिशः फलमश्नुते” इति भविष्योत्तरपुराणवचनेन किं बहुना अंशतः सकलशास्त्रप्रतिपाद्यतया स्वयपरामर्शेनापि पर गेहनिवासो बहुविधान्यसुखान्युत्पादयतीति निष्कृष्यते । अथापि भवननिर्माणात्पूर्व तत्तच्छास्त्रीय सिद्धान्ताः सदसद्विवेकपाटवप्रतिपत्तये प्रत्यासीदन्ति तत्तच्छास्त्रान्तरूर्यजुषां विदुषां मनोमन्दिरे। स्वोपकारितया स्पृहणीयान् एवभावप्रात्तांस्तांस्तान् गलहस्यित्वा स्वाच्छन्द्येन प्रवर्तमानानां पुरुषाणां न मुञ्श्चन्त्श्चलमन्तरायाः। ते च राद्धान्ताः प्रक्रियाबाहुल्येन सार्वजनीनव्यवहारेतर प्रकारवागुराग्रथिततया विशदशेमुषीमुखप्रेक्षितया च न सर्वेषामुपकुर्वन्तीत्यादि संकटादुद्दिधीर्षया मनुजनुषा प्राचीनार्वाचीना चार्याशेषविमर्शसारं समाश्रित्य पण्डितप्रकाण्डपाण्डेयछत्रधरतनुजन्मना गणकमातृप्रसादेन विरचिता “वास्तुसारणी” असौ हृदयेन मयाभिनन्द्यत इति।
Reviews
There are no reviews yet.