षट्पञ्चाशिका
भट्टोत्पलकृत ‘संस्कृतटीका’ सहित-
सविशेष ‘प्रभा’ हिन्दीटीकया समलङ्कृता
-:0:0:-
अथ प्रथमोऽध्यायः
केशाजार्कनिशाकरान् क्षितिविज्जीवास्फुजित्सूयंनान् विघ्नेशं स्वगुरुं प्रणम्य शिरसा देवों च वागीश्वरीम् । प्रश्नज्ञानवतो वराहमिहिरापत्यस्य सद्वस्तुनी लोकानां हितकाम्यया द्विजवरष्टीकां करोत्युत्तमाम् ॥ १ ॥
कानीह शास्त्र सम्वन्धाभिधेयप्रयोजनानि भवन्तीत्युच्यते । आब्रह्मादिविनि-श्चिमिदं वेदाङ्गमिति सम्वन्धः । लग्नहोराद्रेष्काणन बांश सप्तांशकादिना गृहसं स्थानदर्शनेन च जयपराजयलाभहृतनष्टादिपरिज्ञानमभिधेयम् । अन्यत्र शुभाशुभकथ-नादिहलोकपरलोक सिद्धिरिति प्रयोजनम् ।। किमेभिरुक्तैरित्युश्यते । “सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित् । यावत्प्रयोजनं नोक्तं तावतत्केन गृह्यते” ।। कस्यास्मिन् शास्त्र ऽधिकारः । उच्यते । द्विजस्यैव, यतस्तेन षडङ्गो वेदोऽध्येतब्यो ज्ञातव्यश्च ।। कान्यङ्गानीत्युच्यते ।। “शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिः छन्दसां लक्षर्ण चैव षडङ्गो वेद उच्यते” ।। इति ।। सतामयमाचारो यच्छास्त्रस्वा रम्भेष्वभिमतदेवतान मस्कारं कुर्वन्ति तदयपि आवन्तिकाचार्यों द्विजो वराहमि-हिरात्मजः पृथुयशाः संक्षिप्त प्रश्नविद्यां स्वसूत्रः कर्तुकामः आदावेव भगवता श्रीसूर्यस्य नमस्कारं स्वनामाख्यापनं च प्राह –
पणिपत्य रवि मूर्ध्वा वराहमिहिरात्मजेन पृथुपशसा ।
प्रश्ने कृतार्थंगहना परार्थमुद्दिश्य सद्यशसा ।। १ ।।
सं० – वराहमिहिराख्यस्याचार्यस्य आत्मजेन पुत्रेण इत्यभिधानं यस्य तेन रवि सूर्य मूर्ध्वा पृथुयशसा पृथुयशा शिरसा प्रणिपत्य नमस्कृत्य प्रश्ने प्रश्न विषये इयं प्रश्नविद्या कृता रचिता । कीदृशी वर्थगहना अर्थोऽभिधेयं गहना गुह्यो
Reviews
There are no reviews yet.