Sanatan Sanskar Vidhi
पयो दिव्यन्तरिक्षे पयोधाः । पयस्वतीः प्रदिशः सन्तु मह्यम्॥ २ ॥ व्विष्णो रराटमसि व्विष्णोःश्नप्त्रेस्थो विष्णोः स्यूरसि विष्णोध्रुवोऽसि । वैष्णवमसि विष्णवे त्वा ॥३॥ अग्निर्देवता वातो देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवतादित्या देवता मरुतो देवता विश्वेदेवा देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता ॥४॥ द्यौः शान्तिरन्तरिक्ष ९ शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः ।
वनस्पतयः शान्तिविंश्वेदेवाः शान्तिब्रह्म शान्तिः सर्व शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥ ५ ॥ विश्वानि देव सवितदुरित । नि परासुव । यद्भद्र ं तन्नऽआसुव ॥६॥ इमा रुद्राय तवसे कपर्द्दिने क्षयद्वीराय प्रभरामहे मतीः । यथा समसद् द्विपदे चतुष्पदे विश्वम्पुष्टं ग्रामेऽअस्मिन्ननातुरम् ॥ ७ एतन्ते देव सवितु यज्ञम्प्राहुब्बृहस्पतये ब्रह्मणे । तेन यज्ञमव तेन यज्ञपतिन्तेन मामव ॥ ८ ॥ मनो जूतिज्जुषतामा ज्य- स्य बृहस्पतिर्यज्ञमिमं तनोतु अरिष्टं यज्ञ समिमं दधातु विश्वे देवास इह मादद्यान्तामो३म्प्रतिष्ठ । एष वै प्रतिष्ठा नाम यज्ञो यत्र तेन यज्ञेन यजन्ते सर्वमेव प्रतिष्ठितं भवति ॥
Reviews
There are no reviews yet.