श्रीशत्रुध्नत्रिपाठिना संल्लिखितो ज्योतिर्निबधादर्शः मयावलोकितः । सिद्धान्त-संहिताहोरारूपं स्कन्धत्रयात्मकं ज्योतिषशास्त्रं वर्त्तते । तत्रास्मिन् पुस्तके सिद्धान्त-ज्यौतिषस्य प्रायः सर्वेऽपि क्लिष्टतराः विषयाः सारल्येन विवेचिताः सन्ति । छात्राणां यथा सुगमेन विषयाणां बोधो भवेदेतदर्थं प्रयासस्त्वत्र संदृश्यते । तन्त्र ज्योतिषशास्त्र-स्याद्यप्रवर्त्तको भगवान् सूर्य एव । अत्र ज्योतिषशास्त्रस्य लोकोपकाराय अतीवमहत्त्व-पूर्णस्थानमस्तीति सम्यक् विवेचितमस्ति । ज्योतिषस्योपयोगः पञ्चाङ्गसंसाधनार्थ धर्म-कृत्यादिकर्मसम्पादनार्थं च विद्यते। तत्र पञ्चाङ्गसंसाधनार्थमहर्गणस्यावश्यकता विद्यते, तद्वशेनैव मध्यमग्रहानयनं सिध्यति। तत्रास्मिन् ग्रन्थे अहर्गणस्य सम्यक्तया विवेचनं विधाय मध्यमग्रहानयनं ततश्च स्फुटग्रहसाधनार्थं मन्दफलस्य शीघ्रफलस्यापि विवेचनं समीचीनं विद्यते । तत्राहर्गणवशेन लङ्कायाम् औदयिके निशीथे वाऽहर्गणं सिध्यति । तत्र देशान्तरचरान्तरादिसंस्कारवशेन स्वक्षितिजे स्पष्टौदयिके स्पष्टनिशीथकाले वा ग्रहा सञ्जायन्ते । एतदर्थं देशान्तरोदयान्तरचरान्तरादिसंस्काराणां विवेचनं ग्रन्थस्य गौरवं वर्द्धयति । अथ च त्रिप्रश्नसम्बन्धिनो बहवोऽपि विषयाऽत्र संदृश्यन्ते। अक्षक्षेत्राणि, क्रान्तिसाधनम्, अयनांशविवेचनं च सम्यग् प्रतिपादितमस्त्यत्र । एवं रविचन्द्रयोर्ग्रहण-विचारः लम्बननत्योः विचारश्चेति समीचीनं संदृश्यते। उदयास्तविवेचनपूर्वकं महापात-विवेचनं शृङ्गोन्नतिविवेचनं च ग्रन्थस्य गौरवं वर्द्धयति ।
Reviews
There are no reviews yet.