Jataka Bhushanam
नत्वेति । अहं मुकुन्दद्विजः जातकभूषणं कुव्व – विदध इति। कथं भूतं यत्प्राक्तनैः = पुराणैः, मुनिवरैः- मुनिमुख्यः, अखिल जातकं न खिलमखिलं च तज्जातकं, कीत्तितम् – कथितम्, तत्सर्वमालोक्य= समीक्ष्य, कि कृत्वा, श्रीकृष्ण चन्द्रस्य = श्री देवक्या नन्दनस्य, पादयुगम् = चरणद्वयम्, कि भूतं, सरोरुहनिभम् सरसः कासारस्य, रूहमुत्पन्नं तन्निभं, तत्सदृशम्’ पुनः कि भूतं, देवता संधैः- देवताना- मिन्द्रादीनां संघाः समूहास्तैः संसेवितं सम्यक् सेवनीयमाराधनीयमित्यर्थः, पुनः कि भूतं, अतीव कुशलैः – अत्यन्तचतुरैः, योगिजनैः योगश्चित्तवृत्तिनिरोधः, योग एषामस्तीति योगिनस्त एव जनास्तैरपि संसेवितम् तद् नत्वा प्रणम्य, किमर्थं कस्मै प्रयोजनाय वा, बुधजनप्रीत्यै – बुधाः पण्डिताः, ते एव जना लोकास्तेषां प्रीत्यै मुदे इति ।
भगवान् श्रीकृष्ण चन्द्र के कमल सदृश चरणयुगल में, जिनकी सेवा अनेक देवतागण एवं चतुर योगिजन सदैव करते हैं, मैं ब्राह्मण मुकुन्द दैवज्ञ प्रणाम करके, विद्वानों की प्रसन्नता के लिए सम्पूर्ण मुनि- प्रोक्त प्राचीन जातकशास्त्र का अवलोकन कर प्रस्तुत ‘जातक भूषण’ नामक ग्रन्थ की रचना करता हूं ।
Reviews
There are no reviews yet.