आचार्यदिवाकरकृतप्रौढ़मनोरमाटीकायाः प्राचीना प्रतिः श्रीविश्वनाथपुस्तकालयेऽलभ्य- पुस्तकेषु मध्यतः संप्राप्य तत्र यत्किञ्चिद् यथाशक्ति संशोधनं कृत्वा छात्रकल्याणभावनया प्रकाशन- मार्गमाश्रयामि ।
ग्रन्थस्यास्य प्रणेता केशवः ग्रहलाघवस्य प्रणेतुः स्वनामधन्यस्य गणेशदैवज्ञस्य पिता अपि च ग्रहकौमुदीकार्त्तुः नृसिंहदैवज्ञस्य पितामहः आसीत् । केशवस्य कृतित्वदर्शनेनेदमपि स्पष्टं जायते यत् सः ज्योतिषशास्त्रस्य महानाचार्य आसीत्; यः ज्यौतिषशास्त्रमधुनातनस्वरूपे संप्रतिस्थापयितुं समुत्कटं यत्नमकरोत् । एतेषां जन्म पश्चिमसमुद्रतटे नन्दिग्रामे बभूव । तेषां जन्मसमयः सम्प्रति कुत्रापि नोपलब्धः ।
तेषामन्या ग्रन्था अपि दृष्टिपथमायान्ति यथा- वर्षग्रहसिद्धिः, जातकपद्धतिः, जातकपद्धतिविवृत्तिः, ताजकपद्धतिः, सिद्धान्तवासनापाठः, मुहूर्त्त- तत्त्वम्, कायस्थादि कर्मपद्धतिः, कुण्डाष्टकलक्षणम्, गणितदीपिका, ग्रहकौतुकादयः । उपरिवर्णितानां कृतौ ग्रहकौतुके, यस्योपरि मिताक्षरी नाम्नी टीकाऽपि ग्रन्थकर्त्रा स्वयमेव लिखिता विद्यते, बीजसंस्कारस्योत्तममनुकरणीयं वर्णनं सम्प्राप्यते । प्रतीयते यत् सूर्यचन्द्रताराग्रहान् वेधयित्वा तद्दर्शनं शुद्ध्यर्थं आचार्यकेशवेण बहुप्रयासः कृतः । यदाधुनिकानां दैवज्ञानामेवोदाहरणमादर्शञ्च वर्त्तते ।
एवम्प्रकारेण ज्यौतिषशास्त्रस्याधुनिकस्वरूपसम्प्रदाताऽऽचार्य श्रेष्ठकेशवस्य कृतिं ‘जातकपद्धतिं’ जनसाधारणसम्मुखं समानीत्वाऽहं स्वयमपि गर्वमनुभवाम्येव तथाऽनेनैव विद्वज्जनानां सेवाया अपि सौभाग्यं यास्यामि । एवं ग्रन्थस्यास्य प्रकाशनादिकार्ये सहयोगार्थमहं गोयनकासंस्कृतमहाविद्यालये प्राध्यापकपदमलङ्कर्वतां स्वाग्रजानां पं० सुधीरकान्तझामहोदयानां अपि च काशी हिन्दू विश्वविद्यालयीयविश्वपञ्चाङ्गप्रकाशनक्रमे सम्पादकपदमलङ्कर्वतां डॉ० सत्येन्द्रमिश्रमहाभागानां प्रति चिरकृतज्ञोऽस्मि, येषां महति सम्मति काले काले सम्प्राप्ता।
तथा ‘सुरभारती प्रकाशन’ स्याप्यहं कृतज्ञोऽस्मि, येन ग्रन्थप्रकाशनस्य दायित्वं स्वीकृतम्। साधना प्रेस, कम्प्यूटरकेन्द्रमपि धन्यवादार्हः, येषां प्रयासेनैव ग्रन्थस्वरूपं भवतां समक्षमागतोऽस्ति। यद्यपि ग्रन्थस्य प्रूफादिसंशोधनमतिदुस्तरं कार्यमस्तीति सर्वविदितमेव तथ्यमस्ति, तथापि ग्रन्थस्यास्य शुद्ध्यर्थं बहुप्रयासं कृतमस्ति, तथाप्यनवधानवशान्मुद्रणटङ्कणदोषवशाद्वाऽत्र येऽशुद्धयः सञ्जातास्ताः विद्वद्भिः संशोधित्वा पठनीयाः सूचनीयाश्च । एतदर्थमपि सर्वेषां कृतज्ञतां ज्ञापयामि।
Reviews
There are no reviews yet.