कृष्णद्वैपायनमुनिना व्यासाभिधेयेन श्रीमद्भागवतं विरच्य सनाथी-कृता भावुकाः । तदेव श्रीमद्भागवतं शुकमुनिमुखाद्विगलितं परमं मधुरं सुन्दरञ्च सञ्जातम् । ततः नवनवोन्मेषधिषणाधौरेयेण श्रीमच्छ्रीधर-स्वामिना श्रीमद्भागवतं विशदीकृतम् । “विद्यावतां भागवते परीक्षा” इति वचनानुसारं गणककमलमालानन्दसन्दोहमूर्तिर्गीतिकृताखिलपुराणेतिहासोक्त-रीतिः काव्यकलापाञ्चितमतिः श्रीमान् “गणेशः” श्रीमद्भागवतोक्तं गूढतमं फक्किकारूपफलमाकलय्य जातकशास्त्रे ऽलङ्कारभूतं सौन्दर्ययुतं ‘जातकालङ्कारं’ व्यरचयत् ।
यत् स्कन्धत्रयात्मके ज्यौतिषशास्त्रे ऽयमेव जातकस्कन्धो मुख्यतया ज्यौतिषप्राणभूतः सकलजनोपकारी सद्यश्चमत्कारकारी चेति । सत्यपि वैशिष्ट्यबहुले स्कन्धे ऽस्मिन् दुरवगाहतया न किमपि निगदितुं पार्यते। ग्रन्थेऽस्मिन् बहवो विषयाः अतितरां विलक्षणा मनस्तोषकराश्चमत्कार-कारिणश्च सन्ति । इत्थमत्रातिप्रयोजनीयमभीप्सितस्य जातकालङ्कारस्य टीकाटीप्पण्ये विद्वच्चवरणचञ्चरीकस्य मादृशस्य “मन्दः कवियशः प्रार्थी गमिष्यामुपहास्यताम्” इति कविकुलगुरुकालिदासोक्तिवत् नूनं हास्याय भवेदिति । परं प्रतिदिनं विनयोपेतच्छात्राणां प्रार्थनामाकर्ण्य केन विधिना-ध्ययनसमुत्सुकानां छात्राणां साहाय्यं भवेदिति मनसा परिभाव्य “प्रज्ञावर्द्धिनी” हिन्दीटीकया छात्राणां परीक्षासु सौकर्याय साफल्याय च प्रभवदेतदितिनिश्चित्य व्याकरणग्रन्थग्रन्थिना सरलीकृता शब्दाः संयोजिताः ।
Reviews
There are no reviews yet.