समर्पणम्
सर्वभूपजनपूजितपादपद्मः
शौर्येर्गुणै रखिलभारतभूमिदोपः
श्रीमन्महेश कुलपङ्कज – भास्करः श्रो–
लक्ष्मीश्वरः स्वयमभूमिथिलामहीपः ||
स्थानं जगाम निजमेव विहाय भूमिम् ।
धर्मं च यः समुपदिश्य जनान् समस्तान्
तस्यैव पट्टमहिषो महिलासु धन्या
मान्याऽस्ति सम्प्रति सतोजनशिक्षणार्थम् ॥
सन्त्यज्य या स्वयमशेष सुखानि जीवन्-
विद्या सतामिव सुपात्रजने प्रदानात्
मुक्त व मुक्तपतिभक्तिपराऽत्र काश्याम् ।
सम्पत् सदा समुपचोयत एव यस्याः ॥
लोकेऽखिलव्यवहृतौ निपुणाऽस्त्यतीव
सद्धर्मनीतिविषयेऽपि सरस्वतीव ।
पातिव्रतेऽपि निरता सततं सतीव
या शम्भुसेवनपराऽपि च पार्वतीव ।।
या दीनपालनपरानपराम्बराद्यै–
राद्यैरनुष्ठितपथे
लक्ष्मीरिवेद्धतपसाचित विष्णु मूर्ति–
लक्ष्मीवती जयति सा मिथिलाऽधिराज्ञी।
साहाय्यकं समुपलभ्य सदैव यस्था–
पदमादधाना ।
पूछात्रालयेऽपि निवसाम्यहमद्य काश्याम् ।
स्वाभोष्ट दैवतवदच्यंपदाम्बुजायै
तस्यै नतः कृतिमिमां च समर्पयामि ||
Reviews
There are no reviews yet.