अयि निरन्तरछन्दः सम्पर्कपावितहृदयमुकुराः सहृदयाः ! सरस्वती समाराधनसावधानाः सुधियश्च !, विदाङ्कुर्वन्तु भवन्तः, ‘छन्दः पादौ तु वेदस्य’ इत्यनेन सिद्धयति, यच्छन्दःशास्त्रं वेदस्य प्रधानतममङ्गम् । एतच्छास्त्रं लौकिकाऽलौकिकभेदेन द्विधाविभक्तम् । अमुष्य विषये भारतीयविदुषां साहित्य-व्याकरण-दर्शनादिवन्नास्ति समादरः, तथापि पाठ्यविषयेष्वन्यतमत्वाद् विषयोऽयं विदुषां हृत्सु, पिपठिषूणां नियमा-वेलीषु, व्यवसायिनां पुस्तकाऽऽगारेषु, कथं कथमपि जीवति, श्वसिति प्राणिति च । तस्मादेतस्य सङ्क्षेपेण किमपि वृत्तजातमिहोपन्यस्यते ।
इतिहासः साक्षी यद् भारतवर्षमिदं चतुर्वर्णानामुपदेष्टेति, अतोऽत्र प्राचीनकालादेव छन्दःशास्त्रस्य स्थितिरिति नात्र सन्देहावसरः । आस्य आदिगुरुः सर्वलोकशङ्करः शङ्करः, ततः परम्पराक्रमेण शास्त्र-मिदं मषिः पिङ्गलो जग्राह ।
एतदनन्तरमन्येऽपि न्यङ्कु-क्रोष्टुक-यास्क-शाकटायनप्रभृतयः छन्दःशास्त्रप्रवक्तार आसन् समये समये, येषां ग्रन्थेषु लौकिकाऽलौकिक-छन्दसां विचारवीचयः समुल्लसन्ति । तेषु पिङ्गलकृतानि छन्दः सूत्राणि उभयात्मकानि, तदनन्तरं लौकिकच्छन्दोग्रन्थेषु केदारभट्ट-कृतो वृत्त रत्नाकरः, गङ्गादासरचिता छन्दोमञ्जरी, कालिदासनिर्मितः श्रुतबोधः, क्षेमेन्द्रप्रणीतश्छन्दोनिर्णयात्मकः सुवृत्ततिलकः प्रसिद्धि-पदवीमारोहति ।
Reviews
There are no reviews yet.