तनुर्धनं च भ्राता च सुहृत्युत्रो रिपुर्वधूः ।। मृत्युश्च धर्मः कर्मायो व्ययो भावाः प्रकोतिताः ॥२॥ विषमोथ समः पुंस्त्री क्रूरः सौम्यश्च नामतः ।। चरः स्थिरो द्विस्वभावो मेषाद्या राशयः क्रमात् ।।३।। दुश्चिक्यं स्यात्तृतीयं च सुखं सद्म चतुर्थकम् ।। बंधुसंज्ञं च पातालं हिबुकं पंचमं च धीः ॥४।। द्यूनं द्यूनमथास्तं च यामित्रं सप्तमं स्मृतम् ।। दशमं त्वंवरं मध्यं छिद्रं स्थादष्टमं गृहम् ॥५॥ एकादशं भवेल्लाभः सर्वतोभद्रमेव च ।। व्ययो रिष्कं द्वादशं च त्रिकोणं नवपंचमे ॥६॥ त्रिषष्ठदशलाभानां भवेदुपचयाख्यकम् ।। चतुर्थाष्टमयोः संज्ञा चतुरस्रं स्मृता बुधैः ॥७॥ केन्द्रचतुष्टयकंटकसंज्ञाऽद्यचतुर्थ सप्तदशमानाम् ।। परतः पणकरमापोक्लिमं च वेद्यं यथाक्रमतः ।।८।। वर्गोत्तमनवमांशाश्चरादिषु प्रथममध्यांत्याः ।। होरा विषमेकेंद्वोः समरराशौ चंद्रसूर्ययोः क्रमतः ।।९।। स्वगृहाद्वादशभागा द्रेष्काणाः प्रथमपंचनवमानाम् ।। मेवाद्याश्चत्वारः सधत्विमकराः क्षपाबला ज्ञेयाः ॥१००॥ ते विना मिथुनं पञ्च ज्ञेयाः पृष्ठोदया बुधैः ।। सेषो वृषस्तथा कर्को मकरश्च धनुर्धरः ।।११।। पृष्ठोदयाः स्मृताः पञ्चयात्रायां नैव शोभनाः ।। सिहाद्या ये च चत्वारः कुंभो युग्मं दिवाबलाः ।।१२।। शीर्बोदयाश्च मीनस्तु बली रात्रौ तथा दिने ।। क्षीणचंद्रो रविभासः पापोः राहुः शनिः शिखी ॥१३।। बुधोऽपि तैर्युतः पापो होरा राश्यर्द्धमुच्यते ।। रवींदुभौमगुरवो ज्ञशुक्रश निराहवः ।।१४।। स्वस्मिन्मित्राणि चत्वारि परस्मिञ्छत्रवः स्मृताः ।। मेषे रविर्वृषे चंन्द्रो मकरे च महीसुतः ॥१५।। कन्यायां रोहिणीपुत्रो गुरुः ककें झषे भृगुः ।। शनिस्तुलायामुच्चश्च मिथुने सिहिकासुतः ।।१६।। उच्चात्सप्तमगा नीचा राशौ वापि नवांशके ।।१७।। ।। श्रीगणेशाय नमः ।। मङ्गलाचरणश्लोकः । शिवसूनुपदद्वंद्वं शरणं शरणातिहम् ।। नत्वा विरच्यते ह्येषा भाषा स्वल्पधियां मुदे ।।१।। जो परमात्मा अंधकारसे ग्रसित हुए
Reviews
There are no reviews yet.